index
int64
1
616k
Sanskrit
stringlengths
5
4.23k
Tokens
stringlengths
1
4.86k
201
पत्री विनेतुरसमं बुद्धिकौशलवैभवम् । राज्यतन्त्रविधानज्ञो वा जानाति न चेतरः ॥ ५६ ॥
पत्री, विनेतुर्, असमम्, बुद्धि, कौशल, वैभवम्, राज्यतन्त्र, विधानज्ञो*, वा*, जानाति, न, चेत, रः
202
यत्र लब्धोपशमनमलब्धार्थोपचिन्तनम् । दुष्टानां कर्षणं युक्त्या विनीतानां च पोषणम् ॥ ५७ ॥
यत्र, लब्धोपशमनम्, अलब्धार्थो, उपचिन्तनम्, दुष्टानाम्, कर्षणम्, युक्त्या*, विनीतानाम्, च, पोषणम्
203
उत्साहवर्धनं कामपूरणैः कृतकर्म्मणाम् । रञ्जनं रक्षणं शश्वत् रक्तारक्तपरीक्षणम् ॥ ५८ ॥
उत्साहवर्धनम्, कामपूरणैः, रञ्जनम्, रक्षणम्, शश्वत्, रक्तारक्त, परीक्षणम्
204
विश्वासनमविश्वासो नेत्रचेष्टानिरूपणम् । साध्यसाधनयोर्ज्ञानं शक्याशक्यविवेचनम् ॥ ५९ ॥
विश्वासनम्, अविश्वासो*, नेत्रचेष्टा, निरूपणम्, साध्यसाधनयोर्, ज्ञानम्, शक्याशक्य, विवेचनम्
205
ज्ञात्वा नियोजनं योग्ये तथायोग्यान्निवर्तनम् । इत्याद्यूह्या गुणा ये च राजधर्म्मे प्रदर्शिताः ॥ ६० ॥
ज्ञात्वा, नियोजनम्, योग्ये, तथायो, उग्, यान्न्, इवर्, ऋतनम्, इत्याद्यू, ऊह्या*, गुणा*, ये, च, प्रदर्शिताः
206
इति श्रीरुद्रदेवविरचिते श्यैनिके शास्त्रे श्येनानां विवेचनं परिच्छेदः चतुर्थः ॥ ६३ ॥
इति, श्रीरुद्र, देववि, रचिते, श्यैनिके, शास्त्रे, श्येनानाम्, विवेचनम्, परिच्छेदः, चतुर्थः
207
तत्र ते श्यैनिके शास्त्रे विचीयन्ते मनीषिभिः । यथावकाशं हि रसा नाट्यादौ ये विनिर्मिताः ॥ ६१ ॥
तत्र, ते, श्यैनिके, शास्त्रे, विची, ईयन्ते, मनीषिभिः, यथावकाशम्, हि, रसा*, नाट्या, आदौ, ये, विनिर्मिताः
208
इत्याद्यनेकरसभावनया गभीरमापामरादिसुखसेव्यतया सुबोधम् । संक्षिप्तयुक्तिरचितं परिशीलयन्तु ते श्यैनिकं तु मृगयाभिमता हि येषाम् ॥ ६२ ॥
इत्याद्य, अनेक, रस, भावनया, गभीरम्, आपाम, रा, आदि, सुखसेव्य, तया, सुबोधम्, सङ्क्षिप्त, युक्तिर्, अचितम्, परि, शीलयन्तु, ते, श्यैनिकम्, तु, मृगया, अभिमता*, हि, येषाम्
209
तेषामाहारमात्रायाः परिमाणमथोच्यते । कालचर्या तथा रोगपरीक्षानिग्रहावपि ॥ १ ॥
तेषाम्, आहारमात्रायाः, परिमाणम्, अथो, उच्यते, कालचर्या, तथा*, रोगपरीक्षा, अनिग्रहाव, अपि
210
पञ्चविंशतिटङ्कैश्च मात्रा शुद्धामिषस्य या । कुहीचरकवाजानां वहरीणां च सा भवेत् ॥ २ ॥
पञ्चविंशति, टङ्कैश्, च, मात्रा, शुद्धामिषस्य, या, कुही, चरक, वाजानाम्, वहरीणाम्, च, सा*, भवेत्
211
ते पञ्चहीनां तासां तु पुंव्यक्तीनां प्रयोजयेत् । पक्षकाकलिकायास्तु पञ्चहीना ततो भवेत् ॥ ४ ॥
ते, पञ्च, हीनाम्, तासाम्, तु, पुं, व्यक्तीनाम्, प्रयो, जयेत्, पक्षकाकलिकायास्, तु, पञ्च, हीना, ततो*, भवेत्
212
शशादा नाल्पमात्रार्हा लङ्घनेऽपि तथाक्षमाः । जातिमात्रेण निर्देशास्तेषां क्रीडा तु नो हिता ॥ ३ ॥
शशादा*, ना, अल्पमात्रा, अर्हा*, लङ्घनेऽ, अपि, तथा, अक्षमाः, जातिमात्रेण, निर्देशास्, तेषाम्, क्रीडा, तु, नो*, हिता
213
ततो द्विहीना वासानां द्विहीनां पुनरादिशेत् । शुद्धानां वेसराणां तु चूलाङ्कानां पुरोदिताः ॥ ५ ॥
ततो*, द्विहीना*, वासानाम्, द्विहीनाम्, पुनर्, आ, दिशेत्, शुद्धानाम्, वेसराणाम्, तु, चूलाङ्कानाम्, पुरो, उदिताः
214
तावन्मात्रा सिचानानां यथासात्म्येन कल्पिता ॥ ६ ॥
तावन्मात्रा, सिचानानाम्, यथा, असात्म्येन, कल्पिता
215
प्रकल्पयेदिमां मात्रां द्विवारं तेषु योजयेत् । यथा वेतनभक्तस्य यथायोग्येव कल्पना ॥ ८ ॥
प्र, कल्पयेद्, इमाम्, मात्राम्, द्वि, इवा, अरम्, तेषु, योजयेत्, यथा, वेतनभक्तस्य, यथायोग्ये, इव, कल्पना
216
शस्यते कालपातोऽपि तन्त्रक्षोभाय कल्पते । तथैषां कालपातोऽपि नाहारेषु प्रशस्यते ॥ ९ ॥
शस्यते, काल, पातोऽ, अपि, तन्त्र, क्षोभाय, कल्पते, तथै, एषाम्, काल, पातोऽ, अपि, नाहा, अरेषु, प्रशस्यते
217
तथा तुरुमुतीनां तु नवटङ्कैः प्रकल्पिता । चेटाटोनाधूतिकानामेकद्वित्रिक्रमात्कृशाम् ॥ ७ ॥
तथा, तुरुमुतीनाम्, तु, नव, टङ्कैः, प्रकल्पिता
218
वैषम्यमपि मात्राया वैगुण्यमुपपादयेत् । मात्रैषा हि मृगव्यायां नियुक्तानां प्रकीर्तिता ॥ १० ॥
वैषम्यम्, अपि, मात्राया*, वैगुण्यम्, उप, पादयेत्, मात्रै, ऐषा, हि, मृगव्याया, अम्, नियुक्तानाम्, प्रकीर्तिता
219
पक्षमोक्षाय ज्यैष्ठादावन्यां मात्रां प्रकल्पयेत् । ग्रीष्मे प्रचण्डमार्तण्डतापसंतापिता दिशः ॥ ११ ॥
पक्षमोक्षाय, ज्यैष्ठाद्, आवन्, याम्, मात्राम्, प्र, कल्पयेत्, ग्रीष्मे, प्रचण्डमार्तण्ड, तापसन्तापिता*, दिशः
220
न भान्ति तरवश्चैव शीर्णपर्णैरनाश्रयाः । झञ्झानिला धूलिजालैराविला वान्ति सर्वतः ॥ १२ ॥
न, भान्ति, तरवश्, चै, ऐव, शीर्णपर्णैर्, अनाश्रयाः, झञ्झानिला*, धूलिजालैर्, आविला*, वान्ति, सर्वतः
221
पयांसि क्वथितानीव स्रोतस्विन्यः स्रवन्ति च । प्रतप्तरेणुदुष्पर्शा रसा तेनेह जन्तवः । निर्वैरा विगतोत्साहा लक्ष्यन्ते ज्वरिता इव ॥ १३ ॥
पयांसि, क्वथितानी, इव, स्रोतस्विन्यः, स्रवन्ति, च, प्रतप्तरेणु, दुष्पर्शा*, रसा, तेने, इह, जन्तवः, निर्वैरा*, विगतोत्साहा*, लक्ष्यन्ते, ज्वरिता*, इव
222
पतत्रिणस्तारतारै रुवन्ति करुणस्वरैः । विशेषेण स्रवद्वारिधौतामलशिलाचिताः ॥ १४ ॥
पतत्रिणस्, तारतारै, रुवन्ति, करुणस्वरैः, विशेषेण, स्रवद्, वारिधौ, तामल, शिला, अचिताः
223
भिन्नेन्द्रनीलसंकाशसूक्ष्मशष्पसमाचिताः । स्रवत्सरलनिर्याससुरभीकृतमारुताः ॥ १५ ॥
भिन्नेन्द्रनील, सङ्काश, सूक्ष्म, शष्पसमाचिताः, स्रवत्, सरलनिर्यास, सुरभी, कृतम्, आरुता, अः
224
उपत्यका हिमगिरेर्येषां परिचयं गता । तेषां दावाग्निसंकाशो ग्रीष्मो भवति दुःसहः ॥ १६ ॥
उपत्यका*, हिमगिरेर्, येषाम्, परिचयम्, गता, तेषाम्, दावाग्नि, सङ्काशो*, ग्रीष्मो*, भवति, दुःसहः
225
अतस्तापोपशमनानुपचारान्प्रयोजयेत् । तेषां प्रासादशिखरे सुधाधवलितोदरे ॥ १७ ॥
अतस्, तापो, उपशमनान्, उपचारान्, प्रयो, जयेत्, तेषाम्, प्रासाद, शिखरे, सुधाधवलितो, उदरे
226
यन्त्रनिर्मुक्तपर्यन्तपानीयासारशीतले । जनैर्व्यजनहस्तैश्च दूरतो जनितानिले ॥ १८ ॥
यन्त्रनिर्मुक्त, पर्यन्त, पानीयासार, शीतले, जनैर्, व्यजन, हस्तैश्, च, दूरतो*, जनितानि, ले
227
विविक्ते बन्धनं कार्यं जालसंरुद्धमक्षिके । अथवोद्यानसद्वेद्यां रक्षितायां सुरक्षिभिः ॥ १९ ॥
विविक्ते, बन्धनम्, कार्यम्, जालसंरुद्धम्, अक्षिके, अथवो, उद्यान, सद्, वेद्याम्, रक्षितायाम्, सुरक्षिभिः
228
सरत्कुल्याम्बुशीतायां निविडोच्छ्रितभूरुहैः । चण्डांशुकरसंचाररहितायामनारतम् ॥ २० ॥
सरत्कुल्या, अम्बुशीतायाम्, नि, विडो, उच्छ्रित, भूरुहैः, चण्डांशुकर, सञ्चार, रहितायाम्, अनारतम्
229
अथोशीरपरिन्यस्तपानीयसुरभीकृते । परितो वापितोद्भूतयवाङ्कुरविराजिते ॥ २१ ॥
अथो, उशीर, परिन्यस्त, पानीय, सुरभी, कृते, परितो*, वापितो, उद्भूत, यवाङ्कुर, विराजिते
230
निर्दंशमशके रम्ये भूगृहे बन्ध इष्यते । स्थानं विलोचनानन्दजननं घ्राणतर्पणम् ॥ २२ ॥
निर्दंशमशके, रम्ये, भूगृहे, बन्ध*, इष्यते, स्थानम्, विलोचनान्, अन्द, जननम्, घ्राणतर्पणम्
231
समारुतप्रचारं तु सावकाशं प्रकल्पयेत् । नैकत्र बहवः स्थाप्याः द्वित्राः स्थाप्याः पृथक्पृथक् ॥ २३ ॥
समा, अरुत, प्रचारम्, तु, सावकाशम्, प्र, कल्पयेत्, नैक, त्र, बहवः, स्थाप्याः, द्वित्राः, स्थाप्याः, पृथक्, पृथक्
232
न च तेभ्यः सुशीताम्बु वारवारं प्रदर्शयेत् । वाजादिकलविङ्कादेर्मांसं नातिचिरस्थितम् ॥ २४ ॥
न, च, तेभ्यः, सुशीताम्बु, वारवा, आरम्, प्र, दर्शयेत्, वाजा, अदिक, ल, विङ्काद्, एर्, मांसम्, नातिचिर, स्थितम्
233
लघु रुच्यं प्रदातव्यं यथा परिणमेत्तथा । पुष्ट्यै प्रवर्धयेदेषां मात्रामथ शनैःशनैः ॥ २५ ॥
लघु, रुच्यम्, प्रदातव्यम्, यथा, पुष्ट्यै, प्रवर्, ऋध, ये, इदे, इषाम्, मात्राम्, अथ, शनैः, शनैः
234
स्नानार्थं वारिपूर्णाश्च स्थापयेत्कुण्डिकाः पुरः । भुक्तं यद्युद्गिरेयुस्ते मांसमेषां तदौषधम् ॥ २६ ॥
स्नानार्थम्, वारिपूर्णाश्, च, स्थापयेत्, कुण्डिकाः, पुरः, भुक्तम्, यद्यु, उद्, गिरेयुस्, ते, मांसम्, एषाम्, तदौ, औषधम्
235
महिष्या नवनीतेन मेथिकाचूर्णमिष्यते । भुक्तं परिणमेन्नैषां यदि देयं तदामिषम् ॥ २७ ॥
महिष्या*, नवनीतेन, मेथिकाचूर्णम्, इष्यते, भुक्तम्, परिणमे, ईन्न्, ऐषा, अम्, यदि, देयम्, तदाम्, इषम्
236
सद्योहृतं च मद्याम्बुसिक्तं चन्द्राङ्कसंयुतम् । प्रदेयमथवा वह्निचूर्णं तदुपशान्तये ॥ २८ ॥
सद्यो, हृतम्, च, मद्याम्बु, सिक्तम्, चन्द्राङ्क, संयुतम्, प्रदेयम्, अथवा, वह्निचूर्णम्, तद्, उपशान्तये
237
प्रदेयं नवनीतेन धेन्वा वा मांसमिष्यते । क्षुद्बोधाय लवङ्गेन नरमूत्रेण वा पुनः ॥ ३० ॥
प्रदेयम्, नवनीतेन, धेन्वा*, वा*, मांसम्, इष्यते, क्षुद्, बोधाय, लवङ्गेन, नरमूत्रेण, वा, पुनः
238
किंवा भङ्गारसोन्मिश्रं पश्चात्तप्ताम्बु पाययेत् । युक्त्या यथा नोद्विजेरन्युक्तिः सर्वत्र साधिका । कार्श्यं यदि भजेयुस्ते तदा स्त्रीस्तन्यसंयुतम् ॥ २९ ॥
किं, वा*, भङ्गारसो, उन्मिश्रम्, पश्चात्, तप्ताम्बु, पाययेत्, युक्त्या*, यथा, नो, द्विजे, इरन्, युक्तिः, सर्वत्र, साधिका, कार्श्यम्, यदि, भजेयुस्, ते, तदा, स्त्रीस्तन्य, संयुतम्
239
एवं क्रमेण क्षुद्वृद्धिं विधाय परिबृंहयेत् । मात्रासंवर्धनैर्नित्यमुपचारैः सुशीतलैः ॥ ३१ ॥
एवम्, क्रमेण, क्षुद्, वृद्धिम्, विधाय, परि, बृंहयेत्, मात्रा, संवर्धनैर्, नित्यम्, उपचारैः, सुशीतलैः
240
अथाम्बुदकृतध्वाने विद्युदुद्द्योतदीपिते । मालतीजनितामोदप्रमोदे सर्वदेहिनाम् ॥ ३२ ॥
अथा, अम्बुद, कृत, ध्वाने, विद्युदुद्द्योत, दीपिते, मालती, जनिता, आमोदप्रमोदे, सर्वदेहिनाम्
241
दर्दुरारावविरुते शिखण्डिकृतताण्डवे । कदम्बामोदपिशुने श्वसने वाति सर्वतः ॥ ३३ ॥
दर्दुरा, अराव, विरुते, शिखण्डि, कृत, ताण्डवे, कदम्बामोद, पिशुने, श्वसने, वाति, सर्वतः
242
सर्वत्रासारसंचारकलुषे सरिदम्बुनि । झिल्लीझङ्कारवाचाले काले प्रावृषि चागते ॥ ३४ ॥
सर्वत्रा, आसारसञ्चार, कलुषे, सरिदम्बुनि, झिल्ली, झङ्कार, वाचाले, काले, प्रावृषि, चा, अगते
243
तथैवोपचरेत्तास्तु यथा पुष्टाः स्वपक्षकान् । त्यक्त्वा नवान्प्रपद्येरन् सर्पास्त्वचमिव द्रुतम् ॥ ३५ ॥
तथै, ऐवो, उपचरे, त्तास्, तु, यथा, पुष्टाः, स्वपक्षकान्, त्यक्त्वा, नवान्, प्रपद्ये, एर्, रन्, सर्पास्, त्वचम्, इव, द्रुतम्
244
यदि कालात्ययं कुर्युः पक्षमोक्षाय सामिषम् । शरटामिषमप्येके पक्षमोक्षाय जानते ॥ ३६ ॥
यदि, कालात्ययम्, कुर्युः, पक्षमोक्षाय, सामिषम्, शरटामिषम्, अप्ये, एके, पक्षमोक्षाय, जानते
245
गदूपं गोमहिष्यादेर्ददते म्लेच्छजातयः । नैर्घृण्याद्वेगमाच्छादिकरणान्नैष शस्यते ॥ ३७ ॥
गदूपम्, गो, महिष्या, आदेर्, ददते, म्लेच्छजातयः, नैर्घृण्याद्, वेगम्, आच्छादि, करणान्न्, ऐष, शस्यते
246
कृमयो यदि पत्राणि च्यावयन्ति तदौषधम् । विडङ्गवह्निकस्तूरीसमभागैः प्रदापयेत् ॥ ३८ ॥
कृमयो*, यदि, पत्राणि, तदौ, औषधम्, विडङ्ग, वह्निकस्, तूरी, समभागैः, प्रदा, आपयेत्
247
द्विरत्तिमात्रमथवा सैन्धवं स्थूलपक्षिणाम् । लघूनां रत्तिकार्धं तु समांसं दिवसत्रयम् ॥ ३९ ॥
द्विरत्तिम्, आत्रम्, अथवा, सैन्धवम्, स्थूलपक्षिणाम्, लघूनाम्, रत्तिकार्धम्, तु, समांसम्, दिवस, त्रयम्
248
तज्ज्ञैः सुशिक्षिताः श्येना भवन्त्यानन्ददायिनः । अतः सुखविघातार्थं नॄणां प्राग्दृष्टदोषतः ॥ ४० ॥
तज्ज्ञैः, सुशिक्षिताः, श्येना*, भवन्त्या, आनन्ददायिनः, अतः, सुखविघाता, अर्थम्, नॄणाम्, प्राग्, दृष्टदोष, तः
249
तेषामपि भवन्तीह रोगास्तस्माच्च शान्तये । तेषां चोद्देशतो वक्ष्येऽनिग्रहायौषधक्रमम् ॥ ४१ ॥
तेषाम्, अपि, भवन्ती, इह, रोगास्, तस्माच्, च, शान्तये, तेषाम्, चो, उद्देशतो*, वक्ष्येऽ, अनिग्रहायौ, औषध, क्रमम्
250
चतुर्धा श्वासवैषम्यवृत्तिः शाखेति कथ्यते । अभिघातसमुत्थैका श्लेष्मजान्या च पित्तजा ॥ ४२ ॥
चतुर्धा, श्वास, वैषम्य, वृत्तिः, शाखे, इति, कथ्यते, अभिघात, समुत्थै, ऐका, श्लेष्मजान्या, च, पित्त, जा
251
क्षैण्यजान्या शोषितेति कृच्छ्रसाध्या तु सा स्मृता । एषां शाखारुजार्तानां अन्धकारेऽतिनिर्जने ॥ ४३ ॥
क्षैण्यजान्या, शोषिते, इति, कृच्छ्रसाध्या, तु, सा, स्मृता, एषाम्, शाखा, अरुजा, आर्तानाम्, अन्धकारेऽ, अतिनिर्जने
252
इष्यते स्थानमल्पाल्पमामिषं साम्बु दापयेत् । घातजे वोलयुग्मांसं देयं गात्रेऽपि सव्यथे ॥ ४४ ॥
इष्यते, स्थानम्, अल्पाल्पम्, आमिषम्, सा, अम्बु, दापयेत्, घातजे, वोल, युग्मां, सम्, देयम्, गात्रेऽ, अपि, सव्यथे
253
हरिद्रां लेपयेद् युक्त्या सेकः पर्युषिताम्बुना । श्लेष्मजे मारिचं चूर्णं नस्ये प्राक्संप्रयोजयेत् ॥ ४५ ॥
हरिद्राम्, लेपयेद्, युक्त्या, सेकः, पर्युषिताम्बुना, श्लेष्मजे, मारिचम्, चूर्णम्, नस्ये, प्राक्, सम्प्र, योजयेत्
254
शिग्रुत्वक्चूर्णयुग्मांसं देयं तप्ताम्बु पाययेत् । कस्तूरिकापि देया तु तदुपद्रवशान्तये ॥ ४६ ॥
शिग्रु, त्वक्चूर्ण, युग्मां, सम्, देयम्, तप्ताम्बु, पाययेत्, कस्तूरिका, अपि, देया, तु, तद्, उपद्रवशान्तये
255
पित्तजे घनसारेण लवङ्गोशीरचन्दनैः । समांसैर्गुटिका देया मांसात्प्रागेव युक्तितः ॥ ४७ ॥
पित्तजे, घनसारेण, लवङ्गो, उशीर, चन्दनैः, समांसैर्, गुटिका*, देया*, मांसात्, प्राग्, एव, युक्तितः
256
अथवा पूजनायास्तत्कालीनं संप्रयोजयेत् । किटेरपि प्रयोक्तव्यमल्पमल्पं यथाबलम् ॥ ५० ॥
अथवा, पूजनायास्, तत्कालीनम्, सम्प्र, योजयेत्, किटेर्, अपि, प्रयोक्तव्यम्, अल्पम्, अल्पम्, यथाबलम्
257
क्रिया किलायुषः शेषे फलन्त्यपि सुयोजिताः । शस्यते कलविङ्कादेर्नरासृक्सिक्तमामिषम् ॥ ४९ ॥
क्रिया, किला, आयुषः, शेषे, फलन्त्य, अपि, सुयोजिताः, शस्यते, कलविङ्काद्, एर्, नरा, असृक्सिक्तम्, आमिषम्
258
धेन्वाश्च नवनीतेन पत्रिणां मिश्रमामिषम् । दद्यात्तप्ताम्बु युक्त्या च ततस्तदनुपाययेत् ॥ ५१ ॥
धेन्वाश्, च, नवनीतेन, पत्रिणाम्, मिश्रम्, आमिषम्, दद्यात्, तप्ताम्बु, युक्त्या, च, ततस्, तद, नु, पाययेत्
259
पश्चान्मासं वर्त्तिकादेर्देयमल्पं सवारि च । क्षैण्यजा दुर्धरा प्रोक्ता तथापि समुदीर्यते ॥ ४८ ॥
पश्चान्, मासम्, वर्त्तिका, आदेर्, देयम्, अल्पम्, सवा, अरि, च, क्षैण्यजा*, दुर्धरा, प्रोक्ता, तथा, अपि, समुदी, इर्यते
260
कर्पूरसंयुतं वारि काले काले प्रदापयेत् । अथैषां शाखिनां शस्ता मिमायी या प्रकीर्त्यते ॥ ५२ ॥
कर्पूरसंयुतम्, वारि, काले, काले, प्रदा, आपयेत्, अथै, एषाम्, शाखिनाम्, शस्ता*, मिमायी, या, प्र, कीर्त्यते
261
स्थूलानां पाटलाक्षाणां मात्रा द्वे कृष्णले स्मृता । सूक्ष्माणां कृष्णलैका तु मात्रा भवति चौषधे ॥ ५४ ॥
स्थूलानाम्, पाटलाक्षाणाम्, मात्रा*, द्वे, कृष्णले, स्मृता, सूक्ष्माणाम्, कृष्णलै, ऐका, तु, मात्रा*, भवति, चौ, औषधे
262
स्थूलानां श्यामनेत्राणां रत्तिकात्रितयं भवेत् । मात्रां तेषां तु सूक्ष्माणां तदर्द्धमुपकल्पयेत् ॥ ५३ ॥
स्थूलानाम्, श्यामनेत्राणाम्, रत्तिकात्, रित, यम्, भवेत्, मात्राम्, तेषाम्, तु, सूक्ष्माणाम्, तदर्, ऋद्धम्, उप, कल्पयेत्
263
स्तन्यं भङ्गारसोन्मिश्रं मांसेन सह योजयेत् । अञ्जयेच्चाक्षिणी नित्यं दन्तचर्वितजीरकैः ॥ ५५ ॥
स्तन्यम्, भङ्गारसो, उन्मिश्रम्, मांसेन, सह, योजयेत्, अञ्जयेच्, चा, अक्षिणी, नित्यम्, दन्तचर्वित, जीरकैः
264
एषां चूर्णं वस्त्रपूतमजाक्षीरसमन्वितम् । मांसेन शाखिनां देयमेकविंशतिवासरम् ॥ ५७ ॥
एषाम्, चूर्णम्, वस्त्रपूतम्, अजाक्षीर, समन्वितम्, मांसेन, शाखिनाम्, देयम्, एकविंशति, वासरम्
265
त्रिसप्तकदिनान्येव युज्यन्ते सर्वशाखिनां । मागधीरजनीवोलं मिमायीस्वर्जिपाटला ॥ ५६ ॥
त्रिसप्त, क, दिनान्ये, एव, युज्यन्ते, सर्व, शाखिनाम्, मागधीर्, रजनी, वोलम्, मिमायी, स्वर्जि, पाटला
266
शिग्रुमूलत्वचश्चूर्णं अर्कक्षीरेण मेलितम् । मांसेन देयं सर्वेषां शाखिनां दिनसप्तकम् ॥ ५८ ॥
शिग्रुमूल, त्वचश्, चूर्णम्, अर्कक्षीरेण, मेलितम्, मांसेन, देयम्, सर्वेषाम्, शाखिनाम्, दिन, सप्तकम्
267
पतन्ति तापात्धूमाच्च घातात्पुष्पाणि नेत्रयोः । चाङ्गेरीमूलचूर्णेन श्लक्ष्णेणापूरयेद्दृशौ ॥ ५९ ॥
पतन्ति, तापात्, धूमाच्, च, घातात्, पुष्पाणि, नेत्रयोः, चाङ्गेरीमूल, चूर्णेन, श्लक्ष्णे, णा, आपूर्, रयेद्, दृशौ
268
मुच्यते पुष्पकैः श्येनस्तथाष्टादशभिर्दिनैः । अथवा रजनीनिम्बपत्राणि मरिचानि च ॥ ६० ॥
मुच्यते, पुष्पकैः, श्येनस्, तथाष्, टाद्, अशभिर्, दिनैः, अथवा, रजनी, निम्बपत्राणि, मरिचानि, च
269
पाटले मधुना योज्या पुष्पके स्तन्ययोगतः । नाशयत्येव वटिका यथा रुद्रेण निर्मिता ॥ ६२ ॥
पाटले, मधुना, योज्या, पुष्पके, स्तन्ययो, उग्, अतः, नाशयत्ये, एव, वटिका*, यथा, रुद्रेण, निर्मिता
270
अभयापिप्पलीमुस्ताविडङ्गैः सममेलितैः । अजामूत्रेण वटिकां छायाशुष्कां विधाय च ॥ ६१ ॥
अभया, पिप्पलीम्, उस्, तावि, इड्, अङ्गैः, सममेलितैः, अजा, मूत्रेण, वटिकाम्, छायाशुष्का, अम्, विधाय, च
271
पानभोजनवैषम्यात्पित्तोद्रेकाच्च नेत्रयोः । शोफः संजायते वक्त्रे तथा पाकश्च दुर्धरः ॥ ६३ ॥
पानभोजन, वैषम्यात्, पित्तो, उद्रेकाच्, च, नेत्रयोः, शोफः, सञ्जाय, ते, वक्त्रे, तथा, पाकश्, च, दुर्धरः
272
श्लेष्माधिक्यादपि तथा दुश्चिकित्स्यः प्रजायते । क्षीरिण्याश्छल्लिकाचूर्णं तिलतैलेन मेलितम् ॥ ६४ ॥
श्लेष्माधिक्याद्, अपि, तथा*, दुश्चिकित्स्यः, प्रजाय, ते, क्षीरिण्याश्, छल्लिकाचूर्णम्, तिलतैलेन, मेलितम्
273
मुखपाके नृमूत्रेण मिश्रं मांसं प्रशस्यते । ततः प्रक्षालनमपि कार्यमास्यविशुद्धये ॥ ६६ ॥
मुखपाके, नृमूत्रेण, मिश्रम्, मांसम्, प्रशस्यते, ततः, प्रक्षालनम्, अपि, कार्यम्, आस्यविशुद्धये
274
पूर्वजे मांससहितं देयं लेपोऽपि शस्यते । श्लेष्मजे तु शिरे वेध्ये तप्तलौहशलाकया ॥ ६५ ॥
पूर्वजे, मांस, सहितम्, देयम्, लेपोऽ, अपि, शस्यते, श्लेष्मजे, तु, शिरे, वेध्ये, तप्तलौह, शलाकया
275
बन्धकाठिन्ययोगाच्च भयादुत्पतनान्मुहुः । जायते सव्रणः शोफः पदयोर्गर्दभीति सा ॥ ६७ ॥
बन्धकाठिन्य, योगाच्, च, जायते, सव्रणः, शोफः, पदयोर्, गर्दभी, इति, सा
276
कालातिपातात्पदयोः सैव चान्दीति कथ्यते । पिप्पलौदुम्बरे क्षीरे मेलयित्वा विलेपयेत् ॥ ६८ ॥
कालातिपातात्, पदयोः, सै, ऐव, चान्दी, इति, कथ्यते, पिप्पलौ, औदुम्बरे, क्षीरे, मेलयित्वा*, विले, पयेत्
277
चरणौ गर्दभीशान्त्यै सप्तवासरमन्वहम् । शान्तिमभ्येति तेषां हि विट्प्रलेपेन वा पुनः ॥ ६९ ॥
चरणौ, गर्दभी, शान्त्यै, सप्तवासरम्, अन्वहम्, शान्तिम्, अभ्ये, एति, तेषाम्, हि, विट्प्रलेपेन, वा, पुनः
278
जलूकां पातयित्वा तु निशासैन्धवसंयुताम् । नवनीतेन तु स्विन्नां लिप्त्वा वस्त्रेण वेष्टयेत् ॥ ७० ॥
जलूकाम्, पातयित्वा, तु, निशा, सैन्धव, संयुताम्, नवनीतेन, तु, स्विन्नाम्, लिप्त्वा*, वस्त्रेण, वेष्टयेत्
279
दिनत्रयं तदुन्मुच्य पुनरेवं प्रलेपयेत् । द्वादशाहे प्रलेपेन मुच्यते चान्द्यपि स्फुटम् ॥ ७१ ॥
दिनत्रयम्, त, दुन्, मुच्य, पुनर्, एवम्, प्र, लेपयेत्, द्वादशाहे, प्रलेपेन, मुच्यते, चान्द्य, अपि, स्फुटम्
280
आघाताद्धीयमानो यो लक्ष्यते बलवर्णतः । तस्यौषधमिदं देयं वक्ष्यमाणमतन्द्रिणा ॥ ७२ ॥
आघाताद्ध्, हीयमानो*, यो*, लक्ष्यते, बल, वर्णतः, तस्यौ, औषधम्, इदम्, देयम्, वक्ष्यमाणम्, अतन्द्रिणा
281
द्वे निशे तुत्थकं भार्गी मदनं चार्कजं पयः । घृते सर्वसमासेन मेलयित्वामिषेण च ॥ ७३ ॥
द्वे, निशे, तुत्थकम्, भार्गी, मदनम्, चा, अर्कजम्, पयः, घृते, सर्वसमासेन, मेलयित्वाम्, इषेण, च
282
दातव्यं हि यथा मात्रा त्रिसप्तकदिनावधि । क्लिन्नात्पर्युषिताच्चैव दुर्जरादामिषाशनात् ॥ ७४ ॥
दातव्यम्, हि, यथा, मात्रा, त्रिसप्त, क, दिनाव, अधि, क्लिन्नात्, पर्युषिताच्, चै, ऐव, दुर्जराद्, आमिषा, अशनात्
283
नानाविधा हि कृमयो दृश्यन्ते तेषु योजयेत् । द्विभागेन विडङ्गानि कस्तूरीं चैकभागतः ॥ ७५ ॥
नानाविधा*, हि, कृमयो*, दृश्यन्ते, तेषु, योजयेत्, द्विभागेन, विडङ्गानि, कस्तूरीम्, चै, एकभाग, तः
284
मेलयित्वा पाययेत युक्त्या तद्रोगशान्तये । भयादस्नायिनां गात्रे लिक्षा यूकाः पतन्ति च ॥ ७६ ॥
मेलयित्वा, पाययेत, युक्त्या, तद्, रोगशान्तये, भयाद्, अस्नायिनाम्, गात्रे, लिक्षा*, यूकाः, पतन्ति, च
285
तेषां नाशाय मागध्याश्चूर्णेनोद्धूलनं हितम् । बिल्वमूलत्वचं चापि पिष्ट्वा गोमूत्रवारिणा ॥ ७७ ॥
तेषाम्, नाशाय, मागध्याश्, चूर्णेनो, उद्धूलनम्, हितम्, बिल्वमूल, त्वचम्, चापि, पिष्ट्वा*, गोमूत्र, वारिणा
286
तल्लेपादेव नश्यन्ति यूका लिख्या न संशयः ॥ ७८ ॥
तल्ले, पादे, इव, नश्यन्ति, यूका*, लिख्या*, न, संशयः
287
इत्यगदैरुदितैरुपचारैः संविहितैः सुहितैश्च यथावत् । रोगविमुक्ततया परिपुष्टान्वीक्ष्य ततो विनयेन्मृगयायै ॥ ७९ ॥
इत्य, अगदैर्, उदितैर्, उपचारैः, संविहितैः, सुहितैश्, च, यथावत्, रोगविमुक्तत, या, परिपुष्टान्, वीक्ष्य, ततो*, विनये, ईन्, मृगयायै
288
इति श्रीरुद्रदेवविरचिते श्यैनिके शास्त्रे चिकित्साधिकारपरिच्छेदः पञ्चमः ॥ ८० ॥
इति, श्रीरुद्र, देववि, रचिते, श्यैनिके, शास्त्रे, चिकित्सा, अधिकार, परिच्छेदः, पञ्चमः
289
अथैवमगदाद्यैश्च पूर्वोक्तैर्बृंहणीयकैः । हृष्टान्पुष्टान् समालक्ष्य नूतनच्छदशोभितान् ॥ १ ॥
अथै, एवम्, अगदाद्, यैश्, च, पूर्वोक्तैर्, बृंहणीयकैः, हृष्टान्, पुष्टान्, समालक्ष्य, नूतन, च्छ, दशो, भिता, आन्
290
नीलेन्द्रमणिसंकाशपक्षतिभ्यां विराजितान् । मुक्ताजालैरिवोरुस्थपक्षराजिभिरञ्जितान् ॥ २ ॥
नीलेन्द्रमणि, सङ्काश, पक्षतिभ्याम्, विराजितान्, मुक्ताजालैर्, इवो, उरुस्थ, पक्ष, राजिभिर्, अञ्जितान्
291
निर्मुक्तोरगसंकाशान्पट्टपाशोपयोजितान् । ग्रीविकारत्नपदिकामञ्जरीपिञ्जरीकृतान् ॥ ३ ॥
निर्मुक्तोरग, सङ्काशान्, पट्टपाशो, उपयोजितान्, ग्रीविका, रत्नपदिका, मञ्जरी, पिञ्जरीकृतान्
292
पूर्वसंस्कारबोधाय रज्जुयन्त्रितपत्रिषु । परिपातं शिक्षयीत पक्षरक्षाविशारदः ॥ ५ ॥
पूर्वसंस्कार, बोधाय, रज्जुयन्त्रित, पत्रिषु, परिपातम्, शि, क्षयी, इत, पक्षरक्षा, विशारदः
293
किङ्किणीरावमुखरान् कृत्वा तु सुदिने पुनः । पूर्वोक्तविधिना रक्तान्विधायाह्वाययेत्पुनः ॥ ४ ॥
किङ्किणीर्, रावमुखरान्, कृत्वा, तु, सुदिने, पुनः, पूर्वोक्त, विधिना, रक्तान्, विधाया, आह्वा, आययेत्, पुनः
294
ये श्येना नीडनिलया लब्धाः प्राग्बन्धपोषिताः । ताननभ्यस्तसंस्कारान्पतत्रिपरिपातने ॥ ६ ॥
ये, श्येना*, नीडनिलया*, लब्धाः, प्राग्, बन्धपोषिताः, तान, नभ्यस्, त, संस्कारान्, पतत्रि, परिपात, ने
295
बहुधा शिक्षयेत्प्राज्ञः पाटवक्रमवर्धनैः । सुशिष्या इव ते श्येनाः शिक्षां गृह्णन्ति सत्वरम् ॥ ७ ॥
बहुधा, शिक्षयेत्, प्राज्ञः, पाटव, क्रमवर्धनैः, सुशिष्या*, इव, ते, श्येनाः, शिक्षाम्, गृह्णन्ति, सत्वरम्
296
सम्यक्सुशिक्षितानां तु श्येनानां मरुतामिव । नाकार्यं विद्यते किंचित् नासाध्यं योग्यवस्तुषु ॥ ८ ॥
सम्यक्, सुशिक्षितानाम्, तु, श्येनानाम्, मरुताम्, इव, नाका, अर्यम्, विद्यते, किञ्चित्, नासा, अध्यम्, योग्य, अवस्तुषु
297
संधारयेयुस्तान् हस्तैर्युवानो मृष्टकुण्डलाः । सुवेशाश्चारुवसनाः शिक्षिता बहुधान्वहम् ॥ ९ ॥
सन्धा, रयेयुस्, तान्, हस्तैर्, युवानो*, मृष्टकुण्डलाः, सुवेशाश्, चारुवसनाः, शिक्षिता*, बहुधा, अन्वहम्
298
शिक्षावैशद्यमालक्ष्य तदैषां स्वयमीश्वरः । द्रष्टुं विनोदं निर्गच्छेत् आखेटोदितवासरे ॥ १० ॥
शिक्षावै, ऐश, द्य, माल, क्ष्य, तदै, एषाम्, स्वयमीश्वरः, द्रष्टुम्, विनोदम्, निर्, गच्छेत्, आखेटो, उदित, वासरे
299
यामिन्याः प्रथमादेव यामादुदयशालिभिः । प्रातरेव शरन्मेघैर्यायाद्रुद्धे दिवाकरे ॥ ११ ॥
यामिन्याः, प्रथमाद्, एव, यामाद्, उदय, शालिभिः, प्रातरे, इव, शरन्मेघैर्, यायाद्, रुद्धे, दिवाकरे
300
दूरसंचारितानेकसेनो रुद्धान्यसंचरः । स्वयं विरलविख्यातवीराप्तप्रायसंवृतः ॥ १२ ॥
दूरसञ्, चारितान्, एक, सेनो*, रुद्धान्य, असञ्चरः, स्वयम्, विरल, विख्यातवीरा, अप्त, प्राय, संवृतः